अष्टलक्ष्मी साधना एवं प्रयोग
अष्टलक्ष्मी साधना एवं प्रयोग श्री महालक्ष्मी स्तुति एवं आराधना श्री अष्टलक्ष्मी मन्त्र सिद्धिविधानम् - श्री अष्टलक्ष्मी महा मन्त्रम् - श्री अष्टलक्ष्मी माला मन्त्रम् - श्री अष्टलक्ष्मी स्तुतिः श्री कमला प्रयोग - श्रीं महालक्ष्म्यै नमः- अष्टलक्ष्मीस्तोत्रम् - आदौ श्रीरमानाथध्यानं श्रीवत्सवक्षसं विष्णुं चक्रशङ्खसमन्वितम् । वामोरुविलसल्लक्ष्म्याऽऽलिङ्गितं पीतवाससम् ॥ सुस्थिरं दक्षिणं पादं वामपादं तु कुञ्जितम् । दक्षिणं हस्तमभयं वामं चालिङ्गितश्रियम् ॥ शिखिपीताम्बरधरं हेमयज्ञोपवीतिनम् । एवं ध्यायेद्रमानाथं पश्चात्पूजां समाचरेत् ॥ ऋषिः - छन्दः - देवता - विनियोगः अस्य श्रीअष्टलक्ष्मीमहामन्त्रस्य - दक्षप्रजापतिः ऋषिः - गायत्री छन्दः - महालक्ष्मीर्देवता - श्रीं बीजं - ह्रीं शक्तिः - नमः कीलकं - श्रीमहालक्ष्मीप्रसादेन अष्टैश्वर्यप्राप्तिद्वारा मनोवाक्कायसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः श्रीं ह्रीं श्रीं कमले श्रीं ह्रीं श्रीं अङ्गुष्टाभ्यां नमः । श्रीं ह्रीं श्रीं कमलालये श्रीं ह्रीं श्रीं तर्जनीभ्यां नम ॥ श्रीं ह्रीं श्रीं प्रसीद श्रीं ह...